|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.258. अध्यायः 258
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनसभायां कर्णेनार्जुवधप्रतिज्ञानम् ॥ 1 ॥ चारमुखात्पाण्डवैस्तच्छ्रवणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-258-0x(2630)(25880)
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥ 3-258-1(25881)
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः।
ऊटुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव ॥ 3-258-2(25882)
अपरे त्वब्रुवंस्तत्रवादिकास्तं महीपतिम्।
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः ॥ 3-258-3(25883)
नैव तस्य क्रतोरेष कलामर्हति षोडशीम्।
एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम् ॥ 3-258-4(25884)
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः।
`प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता' ॥ 3-258-5(25885)
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा।
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥ 3-258-6(25886)
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ।
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥ 3-258-7(25887)
अभिवाद्य ततः पादान्मतापित्रोर्विशांपते।
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ॥ 3-258-8(25888)
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः।
निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥ 3-258-9(25889)
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः।
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥ 3-258-10(25890)
हतेषु युधि पार्थेषु राजसूये तथा त्वया।
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥ 3-258-11(25891)
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः। 3-258-12(25892)
सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु।
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ।
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ॥ 3-258-13(25893)
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥ 3-258-14(25894)
सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः।
`राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः' ॥ 3-258-15(25895)
कदा तु तं क्रतुवरं राजसूयं महाधनम्।
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥ 3-258-16(25896)
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥ 3-258-17(25897)
कीलालजं न खादेयं करिष्ये चासुरव्रतम्।
नास्तीति नैव वक्ष्यामि याचितो येन केचनित् ॥ 3-258-18(25898)
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः।
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥ 3-258-19(25899)
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः।
`तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते' ॥ 3-258-20(25900)
दूर्योधनोऽपि राजेन्द्र विसृज्यनरपुङ्गवान्।
प्रविवेश गृहंश्रीमान्यथा चैत्ररथं प्रभुः ॥ 3-258-21(25901)
तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत।
`स्वानिस्वनि महाराज भीष्मद्रोणादयो नृपा' ॥ 3-258-22(25902)
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥ 3-258-23(25903)
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता।
प्रतिज्ञा सूतपुतर्स्य विजयस्य वधं प्रति ॥ 3-258-24(25904)
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप।
`अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन्' ॥ 3-258-25(25905)
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्।
अनुस्मरंश् संक्लेशान्न शान्तिमुपजग्मिवान् ॥ 3-258-26(25906)
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः।
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥ 3-258-27(25907)
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम्।
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥ 3-258-28(25908)
संगम्य सूतपुत्रेण कर्णेनाहवशोभिना।
`सततं प्रीयमाणो वै देविना सौबलेन च' ॥ 3-258-29(25909)
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम्।
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥ 3-258-30(25910)
भ्रातॄणां च प्रियं राजन्स चकार परंतपः।
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥ 3-258-31(25911)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-258-1 मागधाश्च महेष्वासं नागराश्च सहस्रशः। इति क. थ. पाठः ॥ 3-258-3 वादिकाः कृतानुवादिनो भूतविशेषाः। वातिकास्तमिति झ. पाठः। वातिकाः वातरोगोपहतचेतस उचितभाषणानभिज्ञः ॥ 3-258-11 सभाजयिता पूजयिष्यामि ॥ 3-258-17 धावये परेणति शेषः ॥ 3-258-18 कीलालजं मांसम्। असुरं सुरारहितं च व्रतं स्वनियमं करिष्ये। मद्यं मांसं च त्यक्ष्ये इत्यर्थः ॥ 3-258-19 उत्कुष्टं उच्चैः शब्दः कृतः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|